This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
चित्तारोपितकामिनीमुखशाशज्योत्स्नाहतक्लान्तयो
मध्याह्नेपि सुखं प्रयान्ति पथिकाः स्वं देशमुत्कण्ठिताः ॥ ३३ ॥
 
3857
 
५८४
 
भ्राम्यच्चीत्कारचक्रभ्रमभरितघटीयन्त्रचक्रप्रमुक्त-
स्रोतःपूर्णप्रणालीपथसरणिशिरासारिसीत्कारि वारि ।
कापं पान्थाः प्रकामं सितमणिमुसलाकारविस्फारधारं
विक्षिप्तक्षुण्णमुक्ताकणनिक रनिभासारपातं पिबन्ति ॥ ३४ ॥
 
बाणभट्टस्यैते ।
 
अथ प्रपापालिका ।
3858
 
अङ्गुल्यमनिरोधतस्तनुतरां धारामियं कुर्वती
कर्कर्या न परं पयो निपुणिका दातुं प्रपापालिका ।
विश्लिष्टाङ्गुलिना करेण दशनापीडं शनैः पान्थ हे
निष्पन्दोवविलोचनस्त्वमपि हा जानासि पातुं पयः ॥ ३५॥
 
कस्यापि ।
 
3859
 
दूरादेव कृतोञ्जलिर्न तु पुनः पानीयपानोचितो
रूपालोकन कौतुकात्प्रचलितो मूर्धा न शान्त्या तृषः
रोमाञ्चोपि निरन्तरं प्रकटितः प्रीत्या म शैत्यादपा-
मक्षुण्णो विधिरध्वगेन विहितो वीक्ष्य प्रपापालिकाम् ॥३६॥
 
1
 
बाणभट्टस्य ।
 
3860
 
गन्तुं सत्वरमीहसे यदि पुनर्व्यालोलवेणीलतां
द्रष्टुं वा स्वकुटुम्बिनीमनुदिनं कान्तां समुत्कण्ठसे ।
तत्तृप्यन्नपि मुग्धमन्थरचलन्नेत्रान्तरुद्धाध्वगा-
मेतां दूरत एव हे परिहर भ्रातः पंपापालिकाम् ॥ ३७ ॥
 
कस्यापि ।
 
3861
 
मध्याह्नेतिखरे निदाघसमये तापो घनो वर्तते
शीते कुञ्जवटे विचित्रविटपे भोः पान्थ विश्रभ्यताम् ।