This page has not been fully proofread.

५८२
 
शार्ङ्गधरपद्धतिः
 
परिकलित इवार्ध: कामबाणातिथिभ्यः
सलिलमित्र वितीर्ण बाल्यलीलासुखाय ॥ २३ ॥
 
कस्यापि ।
 
3847
 
ललितमुरसा तरन्ती तरलतरंगौघचालितनितम्बा ।
विपरीतरतासक्तेव दृश्यते सरसि सा सख्या ॥ २४ ॥
 
अमरुकस्य ।
 
3848
 
उन्मृष्टपत्रा: कलितालकान्ताः
कण्ठेषु लमा जघनं स्पृशन्तः ।
स्तनस्थलेष्वाहतिमादधाना
 
गता वधूनां प्रियतां जलौघाः ॥ २५ ॥
 
3849
 
हतोङ्गरागस्तिलकं विमृष्टं
लब्धान्तरैरेभिरितीव मत्वा ।
 
मुसंहतेनेति तदा जलाना-
मादायि मध्यं न कुचद्वयेन ॥ २६ ॥
जयमाधवस्यैतौ ।
 
3850
 
जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः
समकलि तटभूमिः स्नानमात्रोत्थिताभिः ।
रुचिर कन ककुम्भश्रीमदाभोगतुङ्ग-
स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः ॥ २७ ॥
 
भवभूतेः
 
अथ ग्रीष्मवायवः ।
 
3851
 
कारजी: कुञ्जयन्तो निजजटररवव्यञ्जितावीर कोशा-
नुत्पाकान्कृष्णलानां पृथुसुषिरगताञ्शिम्बिकान्पाटयन्तः ।
 
1