This page has not been fully proofread.

ग्रीष्मस्वभावाख्यानम्
 
सखीषु निर्वाच्यमधाष्टर्यदूषितं
प्रियाङ्गसंश्लेषमवाप मानिनी ॥ १८ ॥
 
3842
 
तथा न पूर्व कृतभूषणोद्धुरः
प्रियेण रागेण विलासिनीजनः ।
 
यथा जलार्द्रा नखमण्डनश्रिया
 
ददाह दृष्टीः प्रतिपक्षयोषिताम् ॥ १९ ॥
 
3843
 
तिरोहितान्तानि नितान्तमाकुलै-
रपां विगाहादलकैः प्रसारिभिः ।
दधुर्वधूनां वदनानि तुल्यतां
द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ २० ॥
 
एते भारवेः ।
 
3844
 
संक्षोभं पयसि मुहुर्मंहेभकुम्भ-
श्रीभाजा कुचयुगलेन नीयमाने ।
विश्लेषं युगमगमद्रथाङ्गनाम्म्रो-
रुह्त्तः क इव सुखावहः परेषाम् ॥ २१ ॥
 
माघकवेः ।
 
3845
 
आत्तमात्तमधिकान्तमुक्षितुं
कातरा शफरशङ्किनी जहाँ ।
अञ्जलौ जलमधीरलोचना
लोचनप्रतिशरीरलाञ्छितम् ॥ २२ ॥
 
कलशस्य ।
 
3846
 
अविरतमिदमम्भः स्वेच्छयो च्छालयन्त्या
विकचकमलकान्तोत्तानहस्तइयेन ।
 
५८१