This page has not been fully proofread.

५८०
 
शार्ङ्गधरपद्धतिः
 
3836
 
एष सूर्याशुसंतप्तो मृगः कुतरुमाश्रितः ।
साधुर्भाग्यपरिक्षीणो नीचं प्राप्येव सीदति ॥ १३ ॥
 
कस्यापि ।
 
3837
 
धत्ते पङ्कजिनीतले गुरुभयं स्वं कर्णतालं द्विपः
सस्यस्तम्बरसान्नियच्छति शिखी मध्येशिखण्डं शिरः ।
। मिथ्या लेढि मृणालकोटिकुटिलं दंष्ट्राङ्कुरं सूकरो
मध्याह्ने महिषश्च वाञ्छति निजच्छायाँमहाकर्दमम् ॥१४॥
 
राजशेखरस्य ।
 
3838
 
रवेर्मयूखैरभितापितो भृशं
 
विदह्यमानः पथि तप्तपांसुभिः ।
अवाक्फणो जिह्मगतिः श्वसन्मुद्दुः
फणी मयूरस्य तले निषीदते ॥ १५ ॥
 
कस्यापि ।
 
3839
 
तरुणतरणितेजः पुञ्ज संतप्तदेहः
 
पतति जरठखड़: पलवले पङ्कगेहः ।
हरिरपि सलिलार्थी शङ्कया तस्य नीरं
न पिबति न च याति किश्यति प्राप्य तीरम् ॥१६॥
 
शार्ङ्गधरस्य ।
 
3840
 
सर्पत्सारणिवारिशीतलतले विन्यस्तपुष्पोत्करे
नीरन्ध्रे कदलीवने गुरुदलच्छायाहतार्कविषि ।
कर्पूरागुरुपङ्कपिच्छिलघनोत्तुङस्तनालिङ्गिभिः
कान्ताकेलिस्तै रहः सुकृतिभिर्मध्यंदिनं नीयते ॥ १७ ॥
 
कस्यापि ।
 
अथ जलकेलिः ।
 
3841
 
करौ
 
धुनाना नवपल्लवाकृती
 
पयस्यगाधे किल जातसंभ्रमा ।