शार्ङ्गधरपद्धतिः /594
This page has not been fully proofread.
ग्रीष्मस्वभावाख्यानम्
इत्युचेर्जल्पमानैरिव मुखरमुखैझिल्लिदूतैरुपेतो-
वात्यौघैश्चागतोसौ प्रकटितविजयस्तम्भचिनिदाघः ॥ ७ ॥
3831
पाश्चात्यैर्मरुमारुतस्त्रिजगतामुन्मूलयन्नाद्रतां
दावाग्निज्वलितैरपारगहनान्यप्यानयन्भस्मताम् ।
वात्याभिस्तृणपत्रधूलिनिकरान्धुन्वन्विहायःस्थले
ग्रीष्मः शुष्यदतुच्छपल्वललुठन्मत्स्यः समभ्यागतः ॥ ८ ॥
एतौ शार्ङ्गधरस्य ।
3832
निजां कायच्छायां श्रयति महिषः कर्दममिव
च्युतं गुञ्जापुजं रुधिरमिव काकः कलयति ।
समुत्सर्पन्सर्पः सुषिरविवरं तापविवशः
सचीत्काराधूतं प्रविशति करं कुञ्जरपतेः ॥ ९ ।
क्षेमेन्द्रस्य ।
५७९
3833
अत्यच्छं सितमंशुकं शुचि मधु स्वामोदमच्छं रजः
कार्पूरं विधूताईचन्दनकुचद्वन्द्वा: कुरङ्गीदृशः ।
धारावेदम सपाटलं विचकिलस्रग्दाम चन्द्र त्विषो
धातः सृष्टिरियं वृथैव तव न ग्रीष्मोभविष्यद्यदि ॥ १० ॥
श्रीभोजदेवस्य ।
3834
तदात्वस्त्रातानां दरदलितमलीमुकुलिताः
स्रजो बिभ्राणानां मलयजरसार्द्राद्रवपुषाम् ।
निदाघाग्निप्लोषग्लपितमभिसायं मृगदृशां
परिष्वङ्गोनङ्गं पुनरपि शनैरङ्कुरयति ॥ ११ ॥
कस्यापि ।
अथ मध्याह्नः ।
3835
दुःसहतापभयादिव संप्रति मध्यस्थिते दिवसनाथे ।
छायामिव वाञ्छन्ती छायापि गता तरुतलानि ॥ १२ ॥
श्रीमदवन्ति वर्मणः ।