This page has not been fully proofread.

५७८
 
शार्ङ्गधरपद्धतिः
 
3825
 
प्रतिगतमर्थिजनानां विच्छिन्नाशं समूहमवलोक्य ।
स्फुटितमपयशस्तापादिव हृदयतलं तडागस्य ॥ २ ॥
 
कस्यापि ।
 
3826
 
मुखकृत बिसखण्डचण्डमार्तण्डतापा-
त्सितजलजतलस्थो राजते राजहंसः ।
रजतघट इवायं विद्रुमावद्धधारा-
विवरविगलदम्बु: कम्बुकण्ट प्रतीहि ॥ ३ ॥
 
कस्यापि ।
 
3827
 
:
 
अङ्कारः खचितेव भूवियदपि ज्वालाकरालं करै-
स्तिग्मांशो: किरतीव तीव्रमभितो वायुः कुकूलानलम् ।
अप्यम्भांसि नखंपचानि सरितामाशा ज्वलन्तीव च
ग्रीष्मेस्मिन्नववह्निदीपितमिवाशेषं जगइर्तते ॥ ४ ॥
श्रीभोजदेवस्य ।
 
3828
 
काने स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशा:
किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः ।
चण्डज्वालावलीढस्फुटिततरुलता ग्रन्थिमुक्ताट्टहासो
 
दावाग्भिः शुष्कवृक्षे शिखरिण गहनेधिष्ठितः पश्यतीव ॥ ५ ॥
भीमस्य ।
 
3829
 
बाले मालेय मुच्चैर्न भवति गगनव्यापिनी नीरदानां
किं त्वं पक्ष्मान्तवातैर्मलिनयसि मुधा वक्त्रमप्रवाहैः !
एषा प्रोत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलानां
दावाने: संप्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा ॥ ६ ॥
 
धाराकदम्बस्य ।
 
3830
 
स्फीतं शीतं गतं क क शिशिरकिरण: क्वास्ति हेमन्तवासः
कैते पानीयपूर्णा मलिनजलधराः क्काय विद्युत्प्रमोदः ।