This page has not been fully proofread.

५७४
 
शार्ङ्गधरपद्धतिः
 
3806
 
निपीयमानस्तबका शिलीमुखै-
रशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनै-
रमन्ददष्टौष्ठकरावधूननम् ॥ २४ ॥
 
भारवेः ।
 
अथ वसन्तवायवः ।
 
3807
 
पानीयं नालिकेरीफलकुहरकुहूत्कारि कल्लोलयन्तः
कावेरीतीरतालद्रुमभरितसुराभाण्डमांकारचण्डाः ।
एते तन्वन्ति वेलावनललितलताताण्डवं द्राविड
स्त्री-
कर्पूरापाण्डुगण्डस्थललुठितरया वायवो दाक्षिणात्याः ॥२५॥
 
बिल्हणस्य ।
 
3808
 
सललितमलकानां वल्लरीर्नर्तयन्तो
 
मधुसुरभिमुखाब्जोच्छा सगन्धानुबन्धाः
उपरतरतभाजां योषितां स्वेदबिन्दू-
न्सतृष इव पिबन्तो वान्ति मन्दं समीराः ॥ २६ ॥
 
कस्यापि ।
 
3809
 

 
कावेरीवारिवेल्लल्लहरिपरिकरक्रीडनक्रीत शीत-
स्फीतश्रीखण्डखण्डभ्रमणभरभवद्भूरिसौरभ्यगर्भाः ।
चोललीचीनचेलाञ्चलकलन कलाक्रान्त कान्तस्तनान्ता
 
वान्ति प्रेयोवियोगातुरतरतरुणीवैरिणोमी समीराः ॥ २७ ॥
 
कृष्णपिल्लस्य ।
 
3810
 
उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे नटन्तः
कुहू कण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।