This page has not been fully proofread.

वसन्तस्वभावाख्यानम्
3801
 
उच्चित्य प्रथममधःस्थितं मृगाक्षी
पुष्पी तिवटपं ग्रहीतुकामा ।
आरोढुं चरणमदादशोकपृष्ठे
मूलाग्रात्पुनरपि तेन पुष्पितोसौ ॥ १९ ॥
 
जयमाधवस्य ।
 
3802
 
पूर्व द्विरेफपरिभूतिभयाद्भवत्या
 
यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् ।
व्यर्थ तदद्य पुनरप्यलकेषु भृङ्गाः
पुञ्जीभवन्निजकुलभ्रमतः पतन्ति ॥ २० ॥
 
कस्यापि ।
 
3803
 
पाणी पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयो-
नीलेन्दीवरशङ्कया नयन योर्बन्धूकबुद्धयारे ।
लीयन्ते कबरीभरे निजकुलव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥ २१ ॥
 
अचलस्य ।
 
3804
 
सन्तु द्रुमाः किसलयोत्तरपुष्पभाराः
प्राप्ते वसन्तसमये कथमित्थमेव ।
 
५७३
 
न्यासैर्नवद्युतिमतोः पदयोस्तवेयं
 
भू: पुष्पिता सुतनु पल्लविता च भाति ॥ २२ ॥
सूक्तिसहस्रात् ।
 
3805
 
इदमिदमिति भूरुहां प्रसूनै-
मुहुरभिलोभयता पुरः पुरोन्या ।
 
अनुरहसमनाथि नायकेन
 
त्वरयति रन्तुमहो जनं मनोभूः ॥ २३ ॥
 
माघकवेः ।