This page has not been fully proofread.

५७२
 
शार्ङ्गधरपद्धतिः
 
3796
 
प्रियसखीसदृशं प्रतिबोधिताः
किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सर-
च्छिदुरयादुरयाचितमङ्गनाः ॥ १४ ॥
 
माघकवेः ।
 
अथ मदनपूजा ।
 
3797
 

 
कुसुमसुकुमार मूर्तिर्दधती नियमेन तनुतरं मध्यम्
आभाति मकरकेतोः पार्श्वस्था चापयष्टेिरिव ॥ १५ ॥
 
3798
 
अनङ्गोयमनङ्गत्वमद्य निन्दिप्यति ध्रुवम् ।
यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥ १६ ॥
 
अथ कुसुमावचयः ।
 
3799
 
श्रीहर्षस्यैतौ ।
 
असंख्य पुष्पोपि मनोभवस्य
पञ्चैव बाणार्थमयं ददाति ।
एवं कदर्यत्वमिवावधार्य
सर्वस्वमग्राहि मधोर्वधूभिः ॥ १७॥
 
3800
 
अताडयत्पलत्रपाणिनैकां
 
पुष्पोचये राजवधूमशोकः ।
 
तच्छेदहेतोरलिपङ्किभङ्गा
निकृन्ततीवासिलता स्मरेण ॥ १८ ॥
 
बिल्हणस्यैतौ ।