This page has not been fully proofread.

वसन्तस्वभावाख्यानम्
 
घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहु-
श्रति प्राप्य मधुप्रसङ्गजनितां मत्ता इवामी ब्रुमाः ॥ ८ ॥
 
श्रीहर्षस्य
 
3791
 
प्रसून शृङ्गै·र्मकरन्दतोयं
 
सलीलमादाय वसन्तकामी ।
वनस्थलीवामदृशां मुखानि
सिञ्चत्यसौ मन्दमरुत्करेण ॥ ९ ॥
 
3792
 
कस्यापि ।
 
स्थाने स्थाने मलयमरुतः पूरयन्त्यङ्कपालीं
 
पुष्पालीषु स्मरगजरजःस्नानयोग्यः परागः ।
जातं चूते मधु मधुकरप्रेयसीजानुदघ्नं
निर्विघ्नत्वं सपदि भजते राजराज्याभिषेकः ॥ १० ॥
 
बिल्हणस्य ।
 
3793
 
कमलिनीमलिनी दयितं विना
 
न सहते सह तेन निषेवितुम् ।
तमधुना मधुना निहितं हृदि
 
स्मरति सा रतिसारमहर्निशम् ॥ ११ ॥
 
3795
 
त्यजत मानमलं बत विग्रहै-
र्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते
 
५७१
 
3794
 
किंशुक कलिकान्त र्गत मिन्दुकलास्पर्धि केसर भाति ।
रक्तनिचोलकपिहितं धनुरिव जतुमुद्रितं वितनोः ॥ १२ ॥
 
विज्जकायाः ।
 
स्मरमते रमते स्म वधूजनः ॥ १३ ॥
 
कालिदासस्य ।