This page has not been fully proofread.

५७०
 
शार्ङ्गधरपद्धतिः
 
वियुक्तरामातुर वृष्टिवीक्षितो
वसन्तकालो हनुमानिवागतः ॥ १ ॥
 
भहवीजकस्य ।
 
3784
 
कोकिलधूतशिखरे मञ्जरीरेणुपिञ्जरः ।
गदितैर्व्यक्ततामेति कुलीनचेष्टितैरिव ॥ २ ॥
 
कस्यापि !
 
3785
 
परिचुम्बाते संश्लिष्य भ्रमरतमञ्जरीम् ।
नवसंगमसंहृष्टः कामी प्रणयिनीमिव ॥ ३ ॥
कस्यापि ।
 
3786
 
महिकामुकुले भाति मञ्जु गुञ्जन्मधुत्रतः
: 1
प्रयाणे पञ्चवाणस्य शङ्खमापूरयन्निव ॥ ४ ॥
 
3787
 
सहकार कुसुम के सरनिकरभरामोद मूर्च्छितदिगंन्ते ।
मधुर मधुविधुर मधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ५ ॥
 
कपिलरुद्रस्य ।
 
3788
 
मलयानिलमिलनोल्बण मदकल कलकण्ठकलकलालापः ।
 
• मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम् ॥ ६ ॥
 
भट्टरुद्रस्य ।
 
3789
 
मन्दोयं मलयानिलः किसलयं चूतद्रुमाणां नवं
माद्यत्कोकिलकूजितं विचकिलामोदः पुराणं मधु ।
बाणानित्युपदीकरोति सुरभिः पञ्चैव पञ्चेषवे
यूनामिन्द्रिय पञ्चकस्य युगपत्संमोहसंपादिनः ॥ ७ ॥
 
श्रीपालकविराजस्य ।
 
3790
 
उच्च विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो
भृङ्गालीविरुतैः कलैरविशदव्याहारलीलामृतः ।