This page has not been fully proofread.

असतीचरितम्
 
3768
 
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षणा-
स्ते चोन्मीलितमालती सुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ ८ ॥
 
शीलाभहारिकायाः ।
 
3769
 
दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि
मायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्त्ररमित: स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरउच्छेदा नलग्रन्थय: ॥ ९ ॥
 
विज्जकायाः ।
 
3770
 
शुश्रूषस्व गुरून्निवर्तय सखीर्वन्दस्व बन्धुस्त्रियः
कावेरीतटसंनिविष्टनयने मुग्धे किमुत्ताम्यसि ।
आस्ते पुत्रि समीप एव भवनादेलालतालिङ्गन-
न्यञ्चद्वालतमालदन्तुरदरी तत्रापि गोदावरी ॥ १० ॥
 
कस्यापि ।
 
3771
 
भद्रं तस्य तरोः स्वयंकृतचिरप्रस्थान किं कथ्यतां
दुर्वारस्त मरण्यवाहरदहद्धिग्दारुणं दुर्वचः ।
मा खिद्यस्व ततः प्रभूत्यनुदिनं तस्याः पतद्भिर्दृशो-
रम्भोभिः परिणद्धपवनच्छायस्तरुवर्धते ॥ ११ ॥
 
कस्यापि ।
 
५६७
 
3772
 
इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का ।
तस्मिन्कति नहि वध्वा नीता वीतोदयाः क्षणदाः ॥ १२ ॥
 
कस्यापि ।
 
3773
 
एकाकिनी यदबला तरुणी तथाह-
मस्महे गृहपतिश्च गतो विदेशम् ।