This page has not been fully proofread.

५६६
 
शार्ङ्गधरपद्धतिः
 
3762
 
मया कुमार्यापि न सुप्तमेकया
न जारमुत्सृज्य पुमान्विलोकितः ।
अनेन गोत्रस्थितिपालनेन
प्रसन्नतामेतु भवोपकारिणी ॥ २ ॥
 
बिल्हणस्य ।
 
3763
 
भ्रूभेदैः कतिचिद्गिरा कुटिलया काश्चित्कियत्यः स्मितैः
स्वैरिण्यः कथयन्ति मन्मथरसव्यापारवश्यं मनः ।
कासांचित्पुनरङ्गकेषु मसृणच्छायेषु मध्यस्थितो
भाव: काचपुढेषु पुष्कर मित्र प्रव्यक्तमालोक्यते ॥ ३ ॥
 
अभिनन्दस्य ।
 
3764
 
दृशा किंचित्किचिल्ललितभुजलीलाविलसनैः
कराघातैः किंचिन्नखविलिखनैः किंचिदधिकम् ।
स्पृशन्त्यः संवाधे गुरुभिरनभिप्रेक्षितपथे
यथेष्टं चेष्टन्ते स्फुटकुचतटाः पश्य कुलटाः ॥ ४ ॥
 
कस्यापि ।
 
3765
 
नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् ।
रमयति सुरतेनान्यं स्त्री बहुरूपा निजा कस्य ॥ ५ ॥
 
क्षेमेन्द्रस्य ।
 
3766
 
पर्यङ्कः स्वास्तरण: पतिरनुकूलो मनोहरं सदनम् ।
तुणमित्र लघु मन्यन्ते कामिन्यधौर्यरतिलुब्धाः ॥ ६ ॥
 
3767
 
दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु ।
पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ ७ ॥