This page has been fully proofread once and needs a second look.

उदारप्रशंसा
 

270
 

युद्ध्यन्ते पक्षिपशवः पठन्ति शुकशारिका: ।

दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः ॥ ३ ॥
 

271
 

एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता ।
 

दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ ४ ॥
 
272
 

272
सैव परं न विनश्यति तनुरपि या श्रीर्निवेशिता सत्सु ।

अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ ॥ ॥
 
1
 

273
 

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ६ ॥
 

274
 

बोधयन्ति न यात्रन्ते भिक्षाचारा गृहे गृहे ।

दीयतां दीयतां नित्यमदातुः फलमीदृशम् ॥ ७ ॥
 

के
षामध्प्येते ।
 

275
 

अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् ।

तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ८ ॥
 

दण्डिनः ।
 

276
 

यद्ददासि विशिष्टेभ्यो यत्च्चाञ्प्राभासिप्ति दिने दिने ।

तत्ते वित्तमहं मन्ये दो शेषमन्यस्य रक्षसि ॥ ९ ॥

भगवतो व्यासस्य ।
 
277
 

277
किं तथा क्रियते लक्ष्म्या या वधूरित्र केवला ।

या न वेश्ये सामान्या पथिकैरुपभुज्यते ॥ १० ॥
 

विक्रमादित्यस्य ।
 

278
 

लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
 

धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः ॥ ११ ॥