2023-02-25 06:19:07 by ambuda-bot
This page has not been fully proofread.
  
  उदारप्रशंसा
  
270
   
युद्ध्यन्ते पक्षिपशवः पठन्ति शुकशारिका: ।
दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः ॥ ३ ॥
   
271
   
एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता ।
   
दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ ४ ॥
   
272
   
सैव परं न विनश्यति तनुरपि या श्रीनिवेशिता सत्सु ।
अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ ॥ ॥
   
1
   
273
   
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ६ ॥
   
274
   
बोधयन्ति न यात्रन्ते भिक्षाचारा गृहे गृहे ।
दीयतां दीयतां नित्यमदातुः फलमीदृशम् ॥ ७ ॥
   
कषामध्येते ।
   
275
   
अर्थिनां कृपणा दृष्टिस्त्वमुखे पतिता सकृत् ।
तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ८ ॥
   
दण्डिनः ।
   
276
   
यद्ददासि विशिष्टेभ्यो यत्राभासि दिने दिने ।
तत्ते वित्तमहं मन्ये दोषमन्यस्य रक्षसि ॥ ९ ॥
भगवत व्यासस्य ।
   
277
   
किं तथा क्रियते लक्ष्म्या या वधूरित्र केवला ।
या न वेश्ये सामान्या पथिकैरुपभुज्यते ॥ १० ॥
   
विक्रमादित्यस्य ।
   
278
   
लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
   
धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः ॥ ११ ॥