शार्ङ्गधरपद्धतिः /579
This page has not been fully proofread.
५६४
शार्ङ्गधरपद्धतिः
3752
नातः परं कुलमतः परतो न शीलं
नातः परं च करुणासदनं मृगाक्ष्याः ।
यद्वाप्पविन्दुरपराधवतोपि पत्यु-
रुत्सङ्गितेन चरणेन तयापनिन्ये ॥ ३ ॥
कस्यापि ।
3753
दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोप्युत्सुकं
गाढं प्रेम नवं वयोतिकटिना: प्राणाः कुलं निर्मलम् ।
स्त्रीत्वं धैर्यविरोधि मन्मथमुहत्कालः कृतान्तोक्षमी
सोढव्याः सखि सांप्रतं कथममी सर्वेनयो दुःसहाः ॥ ४ ॥
मयूरसूनोः शङ्ककस्य ।
3754
अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं
नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।
किं त्वन्येपि जना वदन्ति सुभगो ह्यस्याः पतिर्नान्यतो
दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ ५ ॥
रुद्रस्य ।
अथ कुलवधूवृत्तम् ।
3755
जीवति जीवति नाथे म्रियते च मृते मुदा युता मुदिते ।
सहजस्नेहरसाला कुलवनिता केन तुल्या स्यात् ॥ ६ ॥
शार्ङ्गधरस्य ।
3756
भक्तिः प्रेयसि संश्रितेषु करुणा श्वश्रूषु नम्रं शिरः
प्रीतिर्ज्ञातिषु गौरवं गुरुजने क्षान्तिः कृतागस्यपि ।
अम्लाना कुलयोषितां व्रतविधिः सोयं विधेयः पुन-
मद्भनुदयिता इति प्रियसखी बुद्धिः सपत्नीप्वपि ॥ ७ ॥
बिल्हणस्य ।