This page has not been fully proofread.

संभोगाविष्करणम्
 
वहति गिरिरयं विलम्बिघण्टा-
द्वय परिवारितवारणेन्द्रलीलाम् ॥ ९ ॥
 
माघकवेः ।
 
3738
 
अयमुदयति मुद्राभञ्जनः पद्मिनीना.
 
मुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुर
को कद्वन्द्वबन्धुर्विभिन्द-
न्कुपितकपिकपोलक्रोडतास्तमांसि ।॥ १० ॥
 
कस्यापि ।
 
अथ संभोगाविष्करणम् ॥ १३० ॥
 
3739
 
चन्दनं स्तनतटेवरबिम्बे
 
यावकं घनतरं च सपत्याः ।
 
प्रातरीक्ष्य कुपितापि मृगाक्षी
सागसि प्रियतमे परितुष्टा ॥ १ ॥
 
3740
 
कस्यापि ।
 
५६१
 
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागः परः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातविरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ २ ॥
 
3741
 
यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनी-
रन्योन्यं शयनीयमीहितरसावाप्तिप्रवृत्तस्पृहम् ।
तत्सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो
हासोद्भेदनिरोधमन्थर मिलत्तारं कथंचित्स्थितम् ॥ ३ ॥
 
अमरुकस्यैतौ !