This page has not been fully proofread.

५६०
 
शार्ङ्गधरपद्धतिः
 
3732
 
रामाणां रमणीयवक्रशशिनः स्वेदोपविन्दुप्लुतो
व्यालोलालकमञ्जरीः प्रचलयन्धुन्वन्नितम्बांशुकम् ।
प्रातर्वाति न चातिकृष्ट विकसद्राजीवराजीरज:-
पुञ्जामोदमनोहरो रतिरसग्लानि हरन्मारुतः ॥ ४ ॥
 
0
 
कस्यापि ।
 
अथ सूर्योदयवर्णनम् ।
 
3733
 
ततः कोकवधूवन्धुर्वन्धूककुसुमप्रभः ।
उदयाद्रिशिरोरत्नमुद्ययौ तेजसां निधिः ॥ ५ ॥
 
शार्ङ्गधरस्य ।
 
3734
 
निजांशुकावृतां प्राचीं चुम्बत्यर्केतिरागिण ।
लज्जयेव ययौ क्वापि श्यामा मीलितलोचना ॥ ६ ॥
 
रघोः कविदर्पणस्य ।
 
3735
 
आगत्य संप्रति वियोगविसंस्थलाङ्गी-
मम्भोजिनों कचिदपि क्षपितत्रियामः ।
 
एतां प्रसादयति पश्य शनैः प्रभाते
तन्वाङ्गे पादपतनेन सहस्ररश्मिः ॥ ७ ॥
 

 
कस्यापि ।
 
3736
 
उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा
गायन्ति मत्तमधुपा गृहदीर्घिकास ।
एतच्चकास्ति च रवेर्नवबन्धुजीव-
पुष्पच्छदाभमुदयाचलचुम्बि विम्बम् ॥ ८ ॥
 
3737
 
उदयति विततोवरविमरज्जा-
वहिमरुची हिमधानि याति चास्तम् ।