शार्ङ्गधरपद्धतिः /574
This page has not been fully proofread.
प्रभातवायुसूर्योदयवर्णनम्
संत्रासेन समीरिता प्रियतमप्रेरणावरुद्धा शनै-
रुत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ॥ ११ ॥
कस्यापि ।
3728
नियन्त्या रतिवेश्मनः परिणतप्रायां विलोक्य क्षपां
५५९
गाढालिङ्गनचुम्बनानि बहुशः कृत्वाप्यसंतुष्टया ।
एकं भूमितले निधाय चरणं तल्पे प्रकल्प्या परं
तन्व्यङ्गया परिवर्तिताङ्गलतया प्रेयांश्चिरं चुम्बितः ॥ १२॥
कस्यापि ।
अथ प्रभातवायुसूर्योदयवर्णनम् ॥ १२९ ॥
3729
विकचकमलगन्धैरन्धयन्भूङ्गमालाः
सुरभितमकरन्दं मन्दमावाति वायुः ।
समदमदनमाद्यद्यौवनोद्दामरामा-
रमण रभस खेदस्वेदविच्छेददक्षः ॥ १ ॥
माघकवेः ।
3730
स्तनपरिसरभागे दूरमावर्तमाना:
स्फुटतनमान मध्ये किंचिदेव स्खलन्तः ।
वरलघुनितम्वाभोगरुद्धा वधूनां
निधुवनर सखेदच्छेदिन: शीतवाताः ॥ २ ॥
कस्यापि ।
3731
प्रातः सीमन्तिनीनां निधुवनलुलितान्स्रंसयन्केशपाशा-
नुन्मीलपङ्कजान्तः परिमलसुरभिः स्फारयन्कामलीलाः ।
स्वच्छावश्यायविन्द्वन्दिशि दिशि विकिरन्स्थूलमुक्ताफलाभा-
न्धूलीभिः केतकीनां धवलितभुवनो वाति मन्दं नभस्वान् ॥ ३ ॥