This page has not been fully proofread.

५५६
 
शार्ङ्गधरपद्धतिः
 
अथ प्रणयकलहे नायिकानुनयः ।
 
3713
 
गतप्राया रात्रि: शशिमुखि शशी शीर्यत इव
प्रदीपोयं निद्रावशमुपगतो घूर्णत इव ।
प्रणामान्तो मानस्तदपि न जहासि क्रुधमहो
कुचप्रत्यासच्या हृदयमपि ते चण्डि कठिनम् ॥ ४ ॥
 
3714
 
क्षीणांशुः शशलाञ्छनः शशिमुखि क्षीणो न मानस्तव
स्मेरं पद्मवनं मनागपि न ते स्मेरं मुखाम्भोरुहम् ।
पीतं श्रोत्रपुटेन पदरुतं पीतं न ते जल्पितं
 
रक्ता शऋदिगङ्गना रविकरैर्नाद्यापि रक्तासि किम् ॥ ५ ॥
 
कयोरप्येतौ ।
 
3715
 
एकस्मिञ्छने परामुखतया वीतोत्तरं ताम्यतो-
रन्योन्यं हृदयस्थितेप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो
 
•र्भनो मानकलिः सहासरभसं कण्ठहोनुष्ठितः ॥ ६ ॥
 
अमरुकस्य ।
 
3716
 
कृत्वा विग्रहमश्रुपातकलुषं शय्यासनादुत्थि
क्रोधाच्चापि विहाय गर्भभवनद्वारं रुषा प्रस्थिता ।
दृष्ट्वा चन्द्रमसं प्रभाविरहितं प्रत्यूषवाताहता
हा रात्रिस्त्वरिता गतेति पतिता कान्ता प्रियस्योरसि ॥ ७ //
 
कस्यापि ।
 
अथ प्रभातवर्णनम् ॥ १२८ ॥
 
3717
 
अभूत्याची पिड़ा रसपतिरिव प्राश्य कनकं
 
गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।