This page has not been fully proofread.

५५४
 
शार्ङ्गधरपद्धतिः
 
बिम्बोष्टस्य च वीटिकां मुनयना पाण्यो रणत्कङ्कणं
पश्चाल्लम्बिाने केशपाशनिचये मुक्तो हि बन्धक्रमः ॥ १ ॥
 
कस्यापि ।
 
3704
 
व्यालोलः केशपाशस्तर लितमलकैः स्वेदलोलौ कपोलो
क्लिटा बिम्बावरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काञ्ची कांचिद्द्वताशां स्तनजनपदं पाणिनाच्छाद
 
भूषाहीनापि काचित्मियहृदयमहो प्रीणयत्येव मुग्धा ॥ २ ॥
 
जयदेवस्य ।
 
3705
 
नेपथ्यादपि राजते हि नितरां व्यालुप्तभूषा तनुः
संभोगश्रममीलितं विजयते चक्षुः कटाक्षादपि ।
गाढालिङ्गनकौतुकादपि नवं दोर्त्रल्लिविस्रंसनं
 
प्रीव्यालापरसादपि प्रियतमं मौनं कुरङ्गीदृशः ॥ ३ ॥
 
हरिठरस्य ।
 
3706
 
करकिसलयं धृत्वा धृत्वा विमार्गति वाससी
क्षिपति सुमनोमालाशेष प्रदीपशिखां प्रति ।
स्थगयात मुहुः पत्युनेत्रे विहस्य समाकुला
 
सुरतविरती रम्या तन्वी पुनः पतिमाश्रिता ॥ ४ ॥
 
3707
 
सुरतविरतौ व्रीडावेशश्रमलथहस्तया
रहसि गलितं तन्व्या प्राप्तुं न पारितमंशुकम् ।
रतिरसजडैरङ्गैरङ्गं पिधातुम शक्तया
 
•प्रियतमतनी सर्वाङ्गीणं प्रविष्टमवृष्टया ॥ ५॥
 
अमरुकस्यैतौ ।
 
3708
 
प्रियशतपटस्तेयत्रीडाविडम्बनविद्द्लां
किमपि कृपणालापां वालां विलोक्य ससंभ्रमः ।