This page has not been fully proofread.

36
 
सुरतनिवृत्तिः
 
पुण्यातिरेकात्पुरुषा लभन्ते
पुंभावमम्भोरुहलोचनानाम् ॥ ५ ॥
 
कस्यापि ।
 
3699
 
मुग्धे तवास्मि दयिता पुरुषो भव त्व-
मित्युक्तया नहि नहीति शिरो विधूय ।
स्वस्मात्करात्प्रियकरे वलयं क्षिपन्त्या
वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ ६ ॥
 
कस्यापि ।
 
3700
 
कचित्ताम्बूलाक्तः कचिदगरुपङ्काङ्कमलिनः
कचिच्चूर्णोद्दारी कचिदपि च सालक्तकपदः ।
वलीभङ्गा भोगैरलकपतितैः कीर्णकुसुमैः
स्त्रिया : सर्वावस्थं कथयति रतं प्रच्छदपटः ॥ ७ ॥
 
कस्यापि ।
 
3701
 
ईषत्कम्पपयोधरं गुरुकटीप्रौढप्रहाराद्भुतं
 
स्त्रिद्यद्भालमनेकहास्यसरसं संकथ्यपादव्यथम् ।
वारंवारमुरः प्रपातसुभगं संदश्यमानाधरं
किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ॥ ८ ॥
श्रीशिवदासदेवानाम् ।
 
५५३
 
3702
 
आलोलामलकावलीं सकुसुमां बिभ्रञ्चलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः सीकरैः ।
 
तन्व्या यत्रतान्ततान्तनयनं वक्त्रं रतव्यत्यये
तत्त्वां पातु चिराय किं हरिहरह्मादिभिदैवतैः ॥ ९ ॥
 
अमरुकस्य ।
 
अथ सुरतनिवृत्तिः ॥ १२६ ॥
 
3703
 
शान्ते मन्मथसंगरे रणभूतां सत्कारमातन्वती
वासोदाज्जघनस्य पीनकुत्रयोहरं श्रुतेः कुण्डलम् ।