This page has not been fully proofread.

५५२
 
शार्ङ्गधरपद्धतिः
 
3693
 
मत्तेभकुम्भपरिणाहिनि कुङ्कुमा
कान्तापयोधरयुगे रतखेदखिनः ।
वक्षो निधाय भुजपञ्जरमध्यवर्ती
धन्यः क्षपाँ क्षपयति क्षणलब्धनिद्रः ॥ १५ ॥
 
भर्तृहरेः ।
 
अथ विपरीतरतम् ॥ १२५ ॥
 
3694
 
तन्नास्ति कारयति यन मनोभवस्य
सा शक्तिरप्रतिहता भुवने तथाहि ।
उद्घाटच पीवर पयोधरमण्डलायं
वल्गन्ति पत्युरुपरि प्रमदा अपीह ॥ १ ॥
 
शशिवर्धनस्य ।
 
3695
 
पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकानिकरः ।
रतरसरभ सक त्रग्रहलुलितालकवल्लरीगलितः ॥ २ ॥
 
बाणभवृस्य ।
 
3696
 
प्रशान्ते नूपुरारावे श्रूयते मेखलाध्वनिः ।
कान्ते नूनं रतभान्ते कामिनी पुरुषायते ॥ ३ ॥
 
कस्यापि ।
 
3697
 
प्रारब्धे रतिकेलिसंकुलरणारम्भे तथा साहस-
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि तत्संभ्रमात् ।
खिन्ना येन कटीतटी शिथिंलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥४॥
 
जयदेवस्य ।
 
3698
 
वल्गत्कुचं व्याकुलकेशपाशं
स्विद्यन्मुखं स्वीकृत
मन्दहासम् ।