This page has not been fully proofread.

सुरतकलिकथनम्
 
3688
 
रतिरभसनितान्तश्रान्तकान्ताकुचान्त-
श्वलदमलकराम्रा नाभिदेशेष्वधो वा ।
स्मितमधुरमुखीनां होणनेत्रोत्पलाना-
मधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ १० ॥
 
3689
 
चारुनूपुररणत्कृतं रते
 
कामिनां हरति मानसं यथा ।
नो तथा मधुर गीतवादितं
 
केकिचात कपिकस्वना अपि ॥ ११ ॥
शार्ङ्गधरस्यैतौ ।
 
3690
 
नैषा वेगं मृदुतरतनुस्ता वकीनं विसोढुं
शस्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् ।
रत्यध्यासं विदधत इति प्राणनाथस्य गत्वा
कर्णोपान्ते निभृतनिभृतं नूपुरं शंसतीव ॥ १२ ॥
मूर्तस्य ।
 
3691
 
स्वामिन्प्रभो प्रिय गृहाण परिष्वजस्व
 
किं किं शठोस्यकरुणोसि सुखोज्झितोसि ।
हा दुःखयस्यलमलं विरमेति वाचः
स्त्रीणां भवन्ति सुरते प्रणयानुकूलाः ॥ १३ ॥
कुमारंभहस्य ।
 
3692
 
स्विनं मण्डलमैन्दवं विगलितं सग्भारद्धं तमः
प्रागेव प्रथमानकेतकशिखावीरायित्तं च स्थितम् ॥
शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरो मीलितं
वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति ॥ १४ ॥
 
कस्यापि ।