This page has not been fully proofread.

सुरतकेलिकथनम्
 
3678
 
बलान्नीता पार्श्व मुखमभिमुखं नैव कुरुते
धुनाना मूर्धानं हरति बहुशत्रुम्बनविधिम् ।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना
नवोढा वोढारं सुखयति च संतापयति च ॥ १० ॥
 
कस्यापि ।
 
अथ सुरतकेलिकथनम् ॥ १२४ ॥
 
3679
 
आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम ।
स्वेदः किं नु सरिन्नाथो रोमाञ्चः किं नु पर्वतः ॥ १ ॥
 
कस्यापि ।
 
3680
 
आयाते दयिते मनोरथशतैनाते कथंचिद्दिने
 
वैदग्ध्यापगमाज्जडे परिजने दीर्घं कथां कुर्वति ।
 
दष्टास्मीत्यभिधाय सत्वरतरं व्याधूय चीनांशुकं
तन्वा रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ २ ॥
 
अद्भुतपुण्यस्य ।
 
१७
 
3681
 
भजन्त्या स्तल्पान्तं कृतकपटकण्डूति पिहित-
स्मिते जाते गेहाद्वहिरवहिताली परिजने ।
 
प्रियास्यं पश्यन्त्याः स्मरशरसमाकूतसुभगं
सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ३ ॥
 
जयदेवस्य ।
 
3682
 
५४९
 
चिरविरहिणोरत्युत्कण्ठालथी कृतगात्रयो-
र्नवंभिव जगज्जातं भूयश्चिरादभिनन्दतोः ।
 
कथमपि दिने दीर्घे याते निशामधिरूढयोः
 
**
 
प्रसरति कथा बही यूनोर्यथा न तथा रतिः ॥ ४ ॥