This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
3673
 
-
 
पटालने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम्
न शक्नोव्याख्यातुं स्मितमुखसखीदत्तनयना
हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ५॥
 
अमरुकस्य ।
 
3674
 
अंसाकृष्टदुकूलया सरभसं गूढी भुजाभ्यां स्तना-
वाकृष्टे जघनांशुके कृतमध: संसक्तमूरुद्वयम् ।
नामी मूल निबद्धचक्षुषि तथा न्रीडानताया प्रिये
दीपः फूत्कृतिवातवे पितारीखः कर्णोत्पलेनाहतः ॥ ६ ॥
 
कर्णोत्पलस्य ।
 
3675
 
विरम नाथ विमुञ्च ममाञ्चलं
 
शमय दीपमिमं समया सखीम् ।
इति नवोढवधूवचनैर्युवा
मुदमगादधिकं सुरतादपि ॥ ७ ॥
 
रुद्रस्य ।
 
3676
 
चम्बनेषु परिवर्तिताधरं
 
हस्तरोधि रसनाविघट्टने ।
 
विनितेच्छमपि तस्य सर्वतो
मन्मथेन्धनमभूइधूरतम् ॥ ८ ॥
 
॥८॥
कालिदासस्य ।
 
3677
 
समाकृष्टं वासः कथमपि हठात्पश्यति तदा
क्रमादूरुइन्ई जरठशरगौरं मृगदृशः ।
तया दृष्टिं दत्वा महति मणिदीपे निपुणया
निरुद्धं हस्ताभ्यां झगिति निजनेत्रोत्पलयुगम् ॥ ९ ॥
 
कस्यापि ।