This page has not been fully proofread.

५४६
 
शार्ङ्गधरपद्धतिः
 
3663
 
गाढालिङ्गनपूर्वमेकमनया द्यूते जिते चुम्बनं
तत्किंचित्परिरभ्य दत्तममुना प्रत्यर्पितं चानया ।
नैतत्तादृगिदं न तादृशमिति प्रत्यर्पणपक्रमै-
यूनोभुवनमेकमेव बहुधा रात्रिर्गता तन्वतोः ॥ १० ॥
 
उड्डीयकवेः ।
 
.
 
3664
 
आश्लेषे प्रथम क्रमेण विजिते हृद्येधरस्यार्पणे
नर्मद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्हासनिरोधसंभृतरसोद्भेदस्फुरद्गण्डया
स्त्रैरं सारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥११॥
 
अथ सुरतप्रशंसा ।
 
3665
 
मुरते च समाधौ च मनो यत्र न लीयते ।
 
ध्यानेनापि हि किं तेन किं तेन सुरतेन वा ॥ १२ ॥
 
कस्यापि ।
 
3666
 
यत्र न मदनविकारः सद्भावसमर्पणं च गात्राणाम् ।
तस्मिन्नुद्धतभावे पशुकर्मणि पशव एव रज्यन्ते ॥ १३ ॥
 
3667
 
प्रतिक्षणसमुह सनवकलाकलापान्वितं
क्षपाकरविलोकने यदि तवास्ति कौतूहलम् ।
विलोकय तदा सखे सुरतसंगरासूत्रण-
प्रहृष्टदयितामुखं निबिडकञ्चुकोत्तारणे ॥ १४ ॥
 
भट्टसोमेश्वरस्य ।
 
3668
 
संदष्टेधरपल्लवे सचकितं हस्ताग्रमाधुन्वती
 
मा मा मुच राति कोपवचनैरानतितकूलता ।