This page has been fully proofread once and needs a second look.

मनस्विप्रशंसा
 

255
 

चरमहिमुखे कोषा क्रोधाध्माते करो विनिवेशितो

विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।

गिरिवर तटान्मुक्तश्चात्मा वरं शतधा कृतो

न तु खलजनावारःप्तैरर्थैः कृतं हितमात्मनः ॥ ४ ॥

एतौ भर्तृहरेः ।
 

256
 

ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमा क्ष्महे

तत्राप्येकतरं तु खण्डममितास्तस्मिन्नृपाः केचन ।

तेभ्यो दैन्यशतोपनीतविभवा दृष्टानुकम्पास्तु ते
 
पिङ्गु

धिन्ग्मू
ढाः स्पृहयन्ति हन्त किमपि स्वार्थेन तेभ्योपि ये ॥ ५ ॥
 

श्रीदेवगणदेवानाम् ।
 

257
 

पातालान्न विमोचितो बत बलिर्नीतो न मृत्युः क्षयं

नोन्मृष्टं शशलाञ्छनस्य मलिनं नोन्मूलिता व्याधयः ।

शेषस्थायापि धरां विधृत्य न कृतो भारावतारः क्ष
णं
चेतः सत्पुरुषाभिमानमनिशं मिथ्या वहन्त्रिखिद्यसे ॥ ६ ॥
 

258
 

एक: स एव जीवति हृदयविहीनोपि सहृदयो राहुः ।

यः सकललबिघिमभाजनमुदरं न बिभर्ति दुष्पूरम् ॥ ७ ॥
 

259
 

वरं हालाहलं पीतं सद्यः प्राहरं विषम् ।
 

न तु दृष्टं धनान्धस्य भ्रूभङ्गकुटिलं मुखम् ॥ ८ ॥
 

260
 

प्रत्युपकुर्वन्बापबह्वपि न भवति पूर्वोपकारिणा तुल्यः ।

एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः ॥ ९ ॥
 

261.
 

 
कामं वनेषु हरिणास्तृशेणेन जीवन्त्ययत्नसुलभेन ।

धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः ॥१०॥