शार्ङ्गधरपद्धतिः /559
This page has not been fully proofread.
५४४
शार्ङ्गधरपद्धति:
3652
हावहारि हसितं वचनानां
कौशलं दृशि विकारविशेषः ।
चक्रिरे भृशमजोरपि वध्वाः
कामिनेव तरुणेन मदेन ॥ ६ ॥
माघकवेः ।
3653
मूर्तिमन्तमपि रागरसौघं
ते परस्परसमर्पितवक्त्राः ।
अङ्गनासवमिषेण तदानी-
मक्षिपन्त हृदयेषु युवानः ॥ ७ ॥
जयमाधवस्य ।
अथ चाटुद्यूतक्रीडासुरतप्रशंसाः ॥ १२२ ॥
3654
मुग्धे धानुष्कता केयमपूर्वा तव दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ १ ॥
कस्यापि ।
3655
कृष्णार्जुनानुरक्तापि दृष्टि: कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २ ॥
दण्डिकवेः ।
3656
स्मितपुष्पोद्गमोयं ते दृश्यतेधरपलवे ।
फलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः ॥ ३ ॥
श्रीहर्षस्य ।
3657
दासे कृतागसि भवेदुचितः प्रभूणां
पादप्रहार इति मानिनि नास्मि दूये ।
उद्यत्कठोरपुलकाङ्कित कण्टका ग्रै-
र्यद्भिद्यते तव पदं ननु सा व्यथा मे ॥ ४ ॥