This page has not been fully proofread.

पानगोष्ठीवर्णनम्
 
अथ पानगोष्ठीवर्णनम् ॥ १२२ ॥
 
3647
 
दृश्यते पानगोष्ठीषु कान्तावक्रगतं मधु ।
 
स्मरं सहायमासाद्य प्रस्तो राहुरिवेन्दुना ॥ १ ॥
 
क्षेमन्द्रस्य ।
 
3648
 
पीतस्तुषार
किरणो मधुनैव सार्थ-
मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती ।
मानान्धकारमपि मानवतीजनस्य
 
नूनं बिभेद यदसौ प्रससाद सद्यः ॥ २ ॥
 
रत्नाकरस्य ।
 
3649
 
प्राप्यते गुणवतापि गुणानां
 
व्यक्तमाश्रयवशेन विशेषः ।
 
तत्तथा हि दयिताननदत्तं
 
व्यानशे मधु रसातिशयेन ॥ ३ ॥
 
भारवे: ।
 
3650
 
सागसि प्रियतमे कृतकोपा
 
याङ्गियुग्मपतितेपि न तुष्टा ।
सैव मद्यपरिलुप्तविवेका
 
तं तथैव परितोषयति स्म ॥ ४ ॥
नग्नजितः ।
 
3651
 
पिपि प्रिय सस स्वयं मुमु मुखासवं देहि मे
तत त्यज दुदु द्रुतं भभभ भाजनं काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीवृशः
प्रगे हसित हेतवे सहचरीमिरध्येयत ॥ ५॥
 
कस्यापि ।
 
५४३