This page has not been fully proofread.

५४०
 
शार्ङ्गधरपद्धतिः
 
तिमिरभिदुरं व्योम्नः श्रृद्धं मनोभवकार्मुकं
 
प्रतिपदि नवस्येन्दोर्विस्त्रं सुखोदयमस्तु नः ॥ १० ॥
 
फल्गुहस्तिन्याः ।
 
3631
 
स्वैरं कैरवकोरकान्विदलयन्यूनां मनो दोलय-
न्नम्भोजानेि निमीलयन्मृगदृशां मानं समुन्मूलयन् 1
ज्योत्स्नां कन्दलयन्दिशो धवलयन्नम्भोधिमुद्देल्लय-
न्कोकानाकुलयंस्तमः कवलयन्निन्दुः समुज्जृम्भते ॥११॥
 
कस्यापि ।
 
3632
 
एष स्वर्गतरंगिणीजलमिलद्दिग्दन्तिदन्तद्युति-
भ्रंश्यद्राजतकुम्भविभ्रमधरः शीतांशुरभ्युद्यतः ।
हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयात
स्फारस्फाटिककुण्डलीयति दिशामानन्दकन्दीयति ॥१२॥
 
शङ्खधरस्य ।
 
3633
 
पुरंदरहरिहरीकुहरगर्भसुप्तोत्थित-
स्तुषारकरकेसरी गगनकाननं गाहते ।
 
मयूखनखर त्रुट त्तिमिरकुम्भिकुम्भस्थलो-
च्छलत्तरलतार काकपटकीर्णमुक्तागण: ॥ १३ ॥
 
कस्यापि ।
 
3634
 
उपोढरागेण विलोलतारकं
 
तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया
 
पुरोपि रागाद्गलितं न लक्षितम् ॥ १४ ॥
 
पाणिनेः ।
 
3635
 
अन्धकारगरलं यतो जग-
VAL
 
न्मोहकारि भृशमत्ति नित्यशः ।