This page has not been fully proofread.

५३८
 
शार्ङ्गधरपद्धतिः
 
मा मैवं सखि वल्लभः प्रियतमस्तस्योत्सुका दर्शने
युक्तायुक्त विचारणा यदि भवेत्स्नेहाय दत्तं जलम् ॥ १० ॥
 
3620
 
मन्दं निधेहि चरणौ परिधेहि वासो
नीलं पिधेहि वलयाषलिमञ्चलेन ।
मा जल्प साहसिनि शारदचन्द्रकान्त-
दन्तांशवस्तव तमांसि समापयन्ति ॥ ११ ॥
केषामध्येते ।
 
अथ चन्द्रोदयवर्णनम् ॥ १२० ॥
 
-
 
3621
 

 
उदयतटान्तरितमियं प्राची सूचयति दिङिशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ १ ॥
 
श्रीहर्षस्य ।
 
3622
 
अथ मन्मथवाहिनी परागः
 
किमपि ज्योतिरुदस्फुरत्पुरस्तात् ।
तिमिरस्य जरा चकोरकूरं
 
कुलटा केलिवनीदवानलार्चिः ॥ २ ॥
 
कस्यापि ।
 
3623
 
अथ पथिकवधूदहन: शन कैरुदभून्निशाकरालोकः ।
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ ३ ॥
 
क्षेमेन्द्रस्य ।
 
3625
 
हंसो यथा राजति पङ्कजस्थः
 
सिंहो यथा मन्दरकंदरस्थ: ।
 
3624
 
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥ ४ ॥
 
व्यासस्य ।