This page has not been fully proofread.

35
 
अभिसारिकासचारः
 
आजानूद्धृतनपुरा करतलेनाछाद्य नेत्रे भृशं
कृच्छ्रेणाप्तपदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ५ ॥
 
कस्यापि ।
 
3615
 
अम्भोजाक्ष्याः पुरवनलताधामि संकेतभाज-
चेतोनाथे चिरयति भृशं मोहनिद्रां गतायाः ।
स्वच्छं नाभीह्वलयितं कान्तरत्नांशुजालं
तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥ ६ ॥
 
कस्यापि ।
 
3616
 
ज्ञातं ज्ञातिजनैः प्रघुष्टमयशो दूरं गता धीरता
व्यक्ता ही प्रतिपादितोप्यावेनयः साध्वीपदं प्रोज्झितम् ।
लुमा चोभयलोकसाधुपदवी दत्तः कलङ्क: कुले
 
भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति ॥ ७ ॥
 
कस्यापि ।
 
3617
 
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसंगमाय दयितस्याकृष्यमाणं गुणे-
रुत्कण्ठार्तिभरादेिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ८ ॥
 
जयदेवस्य ।
 
3618
 
जनो दुर्वर्ज्योयं कुलममलिनं वर्त्म विषमं
पातेश्छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् ।
अतः काचित्तन्वी रतिविहितसंकेतगतये
गृहाद्वारं वारं निरगमदथ प्राविशदथ ॥ ९ ॥
 
3619
 
छिद्रान्वेषणतत्परः प्रियसखि प्रायेण लोकोधुना
रात्रिश्चापि घनान्धकारबहला गन्तुं न ते युज्यते ।