This page has not been fully proofread.

५३६
 
शार्ङ्गधरपद्धतिः
 
एतत्तमालदलनीलतमं तमिस्रं
तत्प्रेम हे मनिकषोपलतां तनोति ॥ ९॥
 
जयदेवस्य ।
 
अथाभिसारिकासंचारः ॥ ११९ ॥
 
3610
 
क प्रस्थितासि करभोरु घने निशीथे
प्राणाधिपो वसति यत्र मनःप्रियो मे ।
एकाकिनी वद कथं न बिभेषि बाले
नन्वस्ति पुड़ितारो मदनः सहायः ॥ १ ॥
 
गोविन्दस्वामिनो विकटनितम्बायाश्च ।
3611
 
वातोद्भूतमुखी प्रनष्टतिलका तोयार्द्रलीनांशुका
मेघानां निनदेन भीतहृदया गत्वा प्रियस्यालयम् ।
द्वारं नेच्छति लज्जया मलपितुं देहीति वर्षाहता
पादौ नूपुरकर्दमप्रतिहतौ संशब्दयन्ती स्थिता ॥ २ ॥
 
कस्यापि ।
 
3612
 
प्राणेशमभिसरन्ती पाये स्खलन्ती सुपिच्छिले मुग्धा ।
अवलम्बनाय वारां धारालु करं प्रसारयति ॥ ३ ॥
कस्यापि ।
 
3613
 
उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
 
यदि किमपरं त्रासोत्कम्पं दिशः समुदीक्षसे ॥ ४ ॥
 
अर्गदस्य ।
 
3614
 
मार्गे पडूचिते घनान्धतमसे निःशब्दसंचारया
 
गन्तव्याच मया पियस्य वसतिर्मुग्धेति कृत्वा मतिम् ।