This page has not been fully proofread.

तमोवर्णनम्
 
3604
 
अविज्ञातविशेषस्य सर्वतेजोपहारिणः ।
 
स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ॥ ४ ॥
 
अवन्तिवर्मणः ।
 
3605
 
इदं नमसि भीषणभ्रमदुलूककोलाहलै-
निशाचरविलासिनीनिवहदत्तनेत्रोत्सवम् ।
परिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लस-
द्वराहकुलमांसलप्रबलबद्धमन्धं तमः ॥५॥
सर्वज्ञवासुदेवस्य ।
 
3606
 
किं भूमौ परितः स्फुरन्ति करिण: कस्तूरिकाया रसैः
सिक्ताः किं निखिला दिशः किमखिलं लिप्तं मषीभिर्नभः ।
किं व्याप्तं भुवनं समस्तमपि च श्रीकण्ठकण्ठत्विषा
कालिन्दीजलकान्तिभाजि निबिडे जातेन्धकारेधुना ॥ ६ ॥
 
tea
 
कस्यापि ।
 
3607
 
सद्यः सान्द्रमषीविलुप्तककुभः स्निग्धेन्द्रनीलद्रव-
व्यामीलन्नभसो निरन्तरमिलन्नीलीरसज्योतिनः ।
एते कोकिलकायकालिमहतो लुम्पन्ति वृत्तिं दृशो
रुन्निद्राञ्जनपुञ्जमेचकरुचो भीमास्तमः प्रक्रमाः ॥ ७ ॥
 
कस्यापि !
 
3608
 
५३५
 
चिन्चौर चिकीर्षितानि घटयद्वेतालगोष्ठीसुखं
तन्वानं शवसाधनोत्सवरसं निर्व्याजवीरात्मनाम् ।
कुर्वत्कामकृशानुतप्तमनसां गुप्ताङ्गनासंगमं
दृप्यत्कोकिलकालकण्ठमलिनं ध्वान्तं समुज्जृम्भते ॥ ८ ॥
 
कस्यापि ।
 
3609
 
कादमीर गौरवपुषामभिसारिकाणा-
माबद्धरेखमभितो रुचिमञ्जरीभिः ।