This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
3599
 
मित्रे कापि गते सरोरुहवने बद्धानने लाम्यति
क्रन्दनु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् ।
चक्राङ्गेण वियोगिना बिसलता नास्वादिता नोज्झिता
वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १७ ॥
 
3600
 
वापीतोयं तटरुहवनं पद्मिनीपत्र
शय्या
 
चन्द्रालोको विकचकुसुमामोदहृद्यः समीरः ।
यत्रैतेपि प्रियविरहिणो दाहिनश्चक्रनाम्च-
स्तत्रोपायः क इव भवतु प्राणसंधारणाय ॥ १८ ॥
केषामप्येते ।
 
अथ तमोवर्णनम् ॥ ११८ ॥
 
3601
 
पिदधति तिमिरे समस्तलोकं
प्रलयमहाब्धिनिभे भृतोच्चनिम्ने ।
व्यरुचदुडुगणो वलक्षरोचि-
र्बहुविधफेनसमूहतुल्यरूपः ॥ १ ॥
शार्ङ्गधरस्य ।
 
3602
 
काकोलः कलकण्टिका कुवलयं कादम्बिनी कर्दमः
कंसारिः कबरी कृपाणलतिका कस्तूरिका कज्जलम् ।
कालिन्दी कषपट्टिका करिघटा कामारिकण्ठस्थली
यस्यैते करदीभवन्ति सखि तद्वन्दे विनिद्रं तमः ॥ २ ॥
कस्यापि ।
 
3603
 
लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।
 
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ ३ ॥
 
विक्रमादित्य मेण्डयो: ।