This page has not been fully proofread.

सूर्यास्तचक्रवाकावस्थाख्याने
 
3594
 
महद्भिरोषैस्तमसामभिद्रुते
भयेप्यसंमूढमतिर्भ्रमन्क्षितौ ।
प्रदीपवेषेण गृहे गृहे स्थितो
 
विखण्य देहं बहुधेव भास्करः ॥ १२ ॥
 
मेण्ठस्य ।
 
५३३
 
अथ चक्रबाकावस्याख्यानम् ।
 
3595
 
चक्राहो विरही हतोपि हृदये बाणेन न व्यक्तवा-
न्प्राणान्प्राण समासमागमसुखध्यानै कतानश्चिरम् ।
स्वां छायामवलोक्य वारिणि गलद्रक्तामवेत्य प्रियां
भ्रान्तस्तद्रूणवेदनापरिगतः कष्टं मृतः सांप्रतम् ॥ १३ ॥
 
कस्यापि ।
 
3596
 
एकेनाक्ष्णा प्रविततरुषा वीक्षते लम्बमानं
भानोबिम्ब जलविलुलितेनापरेण स्वकान्तम् ।
अदयितविरहाशङ्किनी चक्रवाकी
संकीरचयति रसौ नर्तकीव प्रगल्भा ॥ १४ ॥
 
चन्द्रकस्य ।
 
3597
 
तीरात्तीरमुपैति रौति करुणं चिन्तां समालम्बते
किंचिद्धचायति निश्चलेन मनसा योगीव युक्तेक्षणः ।
स्वां छायामवलोक्य कूजति पुनः कान्तेति मुग्धः खगो
धन्यास्ते भुवि ये निवृत्तमदना धिग्दुःखितान्कामिनः ॥१५॥
 
3598
 
A
 
भङ्गा भोक्तुं न भुते, कुटिलबिसलतां कोटिमिन्दोर्वितर्का-
ताराकारास्तृषार्त्तः पिबति न पयसां विप्रुषः पत्र संस्थाः ।
छायामम्भोरुहाणामलिकुलशवलां वेत्ति संध्यामसंध्यां
कान्ता विशेष भीरुर्दिनमपि रजनीं मन्यते चक्रवाकः ॥ १६ ॥