This page has not been fully proofread.

सूर्यास्त वर्णनचक्रवाकावस्थाख्याने
 
कललभरितमन्तः किं नु तार्क्ष्याण्डखण्ड
प्रजनयति वितर्क सांध्यमर्कस्य बिम्बम् ॥ १ ॥
 
कस्यापि ।
 
3584
 
अस्तावलम्बिरविबिम्बतयोदयाद्रि-
चूडोन्मिषत्सकलचन्द्रतया च सायम् ।
संध्याप्रनृत्तहरहस्त गृहीतकांस्य-
तालद्वयेव समलक्ष्यत नाकलक्ष्मीः ॥ २ ॥
 
रत्नाकरस्य ।
 
3585
 
अनुरागवन्तमपि लोचनयो-
र्दवतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं
वियदालयादपर दिग्गणिका ॥ ३ ॥
 
सांध्यरागरुधिरारुणमारा-
निष्पपात रविमण्डलमब्धौ ।
 
माघकवेः ।
 
3586
 
विलोक्य संगमे रांग पश्चिमाया विवस्वतः !
 
कृतं कृष्णं मुखं प्राच्या नहि नार्यो विनेर्ष्यया ॥ ४ ॥
 
कस्यापि ।
 
3587
 
क्रूरकालकरवालविलूनं
वासरस्य सहसैव शिरो नु ॥ ५ ॥
 
महोपमन्योः ।
 
3588
 
परिपतति पयोनिधौ पतङ्गः
 
सरसिरुहामुदरेषु मत्तभृङ्गः ।
उपवनतरुकोटरे विहंगो
 
५३१
 
युवतिजनेषु शनैः शनैरनङ्गः ॥ ६ ॥
 
कस्यापि ।