शार्ङ्गधरपद्धतिः /545
This page has not been fully proofread.
शार्ङ्गधरपद्धतिः
3579
वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवो विभ्रमो-
प्युद्धान्तः कृत एष लोलनयने किं लोहिते लोचने ।
नास्त्यागो मयि किं मुधैव कुपितेत्युक्ते पुरः प्रेयसा
मानिन्या जलबिन्दुदन्तुरपुटा दृष्टिः सखीष्वाहिता ॥ ५ ॥
रुद्रस्यैतौ ।
3580
सा यावन्ति पदान्यलीकवचनैरालीजनैः पाठिता
तावन्त्येव कृताग सोद्भुततरं संलप्य पत्युः पुरः ।
प्रारे परतो यथा मनसिजस्येच्छा तथा वार्तेतुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोप्येष कान्तक्रमः ॥ ६ ॥
महेन्दुराजस्य ।
3581
दृष्टे लोचनवन्मनाङ्गुकुलितं पार्श्वस्थिते वक्रव-
न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति ।
नीवीबन्धवदागतं शिथिलतां संभाषमाणे क्षणं
मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ ७ ॥
कस्यापि ।
3582
इह स्फुटं तिष्ठति नाथ कण्टकः
शनैः शनैः कर्ष नखाग्रलीलया ।
इति च्छलात्काचिदलग्नकण्टकं
पदं तदुत्सङ्गतले न्यवेशयत् ॥ ८ ॥
कस्यापि ।
अथ सूर्यास्तवर्णन चक्रवाकावस्थाख्याने ॥११७॥
3583
पृथुगगनकबन्धस्कन्धचक्रं किमेत-
स्किमु रुधिरकपालं कालकापालिकस्य ।