This page has not been fully proofread.

परस्परप्रसादः
 
पश्य त्वं कृशकं शरीरकमिदं यां यामवस्थां गतं
सैषाहं तव पादयोर्निपतिता नाथ प्रसीदाधुना ॥ ९ ॥
 
कस्यापि ।
 
अथ परस्परप्रसादः ॥ ११६ ॥
 
५२९
 
3575
 
दृष्ट्कासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
तिर्यग्वक्रितकंधरः सपुलकप्रेमोल्लसन्मानसा-
मन्तर्हासलसत्क पोलफलकां धूर्तोपरां चुम्बति ॥ १ ॥
 
अमरुकस्य ।
 
3576
 
आगत्य प्रणिपातसान्त्वित सखीदत्तान्तरे सागसि
स्वैरं कुति तल्पपार्श्वनिभृते धूर्तेङ्गसंवाहनम् ।
ज्ञात्वा स्पर्शवशात्प्रियं किल सखीभ्रान्त्या स्वमन्वं शनैः
खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ॥ २ ॥
 
कस्यापि ।
 
3577
 
सुतनु जहिहि मानं पदय पादानतं मां
तब न खलु कदाचित्कोप एवंविधोभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३ ॥
कस्यापि ।
 
3578
 
सत्यं वल्लभ एष दुर्लभतमो रागो ममास्मिन्पुनः
कोपोस्थातिगुरुर्न चातिनिपुणाः सख्योपि संबोधने ।
संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे लथां मेखलां
बधन्त्या न गतं स्थितं न च लसदासोथवा संवृतम् ॥ ४ ॥
 
॥ ॥