This page has not been fully proofread.

५२८
 
शार्ङ्गधरपद्धतिः
 
अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता
 
वाञ्छन्ती मुहुरेणशावनयना पर्याकुला रोदिति ॥ ४ ॥
 
कस्यापि ।
 
3570
 
आधेरजनि जगाम घाम तस्याः
 
प्रियतमयेति रुषा स्रजावनद्धः ।
 
पदमपि चलितुं युवा न सेहे
 
किमिव न शक्तिहरं ससाध्वसानाम् ॥ ५॥
 
माघकवे: ।
 
अथ नायकानुनयः ।
 
3571
 
त्वं तावद्वहुवल्लभो नवयुवा कान्तः सुखी निर्घृणो
नो जानासि परव्यथां शटमते नैवासि दुःखी यतः ।
किं त्वन्या: परिपृच्छ मन्मथशरैः पीडामसह्यामिमां
त्राता नो भव येन सज्जनजनैः कापालिको नोच्यसे ॥ ६ ॥
 
कस्यापि ।
 
3572
 
विरहविषमः कामो वामः करोति तनुं तनुं
दिवसगणनादक्षश्चायं व्यपेतघृणो यमः ।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥ ७ ॥
शीलाभहारिकायाः ।
 
3573
 
घनघनमपि दृष्टं व्योम रम्यं मरुत्वा-
च्छिखिकुलकलवाचां श्रोत्रमासीन्निवास: ।
अनुसमन मृताहं यहियोगेपि जाते
तव घनपरिरम्भप्रार्थनाशावशेन ॥ ८ ॥
हरिगणस्य ।
 
3574
 
मुक्तो मानपरिग्रहः सह सखीसार्थेन तन्मन्त्रिणा
शक्ता त्वचरणप्रसादरहिता नाहं क्षणं प्राणितुम् ।