This page has not been fully proofread.

नायकयोरुक्तिप्रत्युक्ती
 
तल्कि रोदिषेि गद्देन वचसा कस्यायतो रुद्यते
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥१॥
कुमारदासस्य ।
 
५२५
 
3555
 
नयननिपातेङ्करितः पल्लवितो वचसि पुष्पितो हसिते ।
फलतु कृशाङ्गि तवाङ्ग स्पर्शेन मनोरथोस्माकम् ॥ २ ॥
 
कस्यापि ।
 
3556
 
सुश्रु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां
दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादयः ।
रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना
सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा ममान्धा दिशः ॥ ३ ॥
 
विद्यापतेः ।
 
3557
 
उत्तरंगय कुरङ्गलोचने
लोचने कमलगर्वमोचने ।
 
अस्तु सुन्दरि कलिन्दनन्दिनी-
वीचिडम्बर गंभीरमम्बरम् ॥ ४ ॥
 
कस्यापि ।
 
3558
 
पुराभूदस्माकं प्रथममविभक्ता तनुरियं
ततो न त्वं प्रेयानहमपि हताशा प्रियतमा
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
मयात प्राणानां कुलिशकठिनानां फलमिदम् ॥ ५ ॥
 
अमरुकस्य ।
 
3559
 
व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो
नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि ।
मत्वैवं मयि नूनमन्यविषयाशङ्का त्वया त्यज्यतां
किं वान्यत्र निशाकरोभिरमते मुक्त्वा क्षणं कौमुदीम् ॥६॥
 
कस्यापि ।