This page has been fully proofread once and needs a second look.

सज्जनप्रशंसा
 

 
241
 

गोत्रस्थितिं न मुञ्चन्ति सदा सन्नतिमाश्रिताः ।

उदन्वन्तश्च सन्तश्च महासत्त्वतयानया ॥ ११ ॥
 
242
 

242
ब्रूतेन्यस्यासतोप्यार्यो गुणान्दोषांस्तु दुर्जनः ।

तुल्येप्यसत्ये किं त्वेको गच्छत्यूर्ध्वमधोपरः ॥ १२ ॥
 

243
 

आस्तामन्यत्सुजनाः परोपका रैककरणदुर्ललिताः ।

संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते ॥ १३ ॥
 
244
 

244
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति ।

प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥ १४ ॥
 

देवेश्वरस्य ।
 

245
 

शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।

नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥१५॥
 

246
 

अद्यापि नोज्झति हरः किल कालकूट

कूर्मो बिभर्ति धरणी खलु पृष्ठभागे ।

अम्भोनिधिर्वहति दुर्वहवाडवाग्नि-

मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १६ ॥
 

247
 

आदिमध्यनिधनेषु सौहृदं

सज्जने भवति नेतरे जने ।

छेदतापनविघर्षताडनै-

र्ना
न्यभावमुपयाति काञ्चनम् ॥ १७ ॥
 

248
 

ये जाते व्यसने निराकुलधिय: संपत्सु नाभ्युन्ताः

प्राप्तेनैव पराङ्गमुखाः प्रणयिनि प्राणोपयोगैरपि ।