This page has not been fully proofread.

सज्जनप्रशंसा
 
241
 
गोत्रस्थितिं न मुञ्चन्ति सदा सन्नतिमाश्रिताः ।
उदन्वन्तश्च सन्तश्च महासत्त्वतयानया ॥ ११ ॥
 
242
 
ब्रूतेन्यस्यासतोप्याय गुणान्दोषांस्तु दुर्जनः ।
तुल्येप्यसत्ये किं त्वेको गच्छत्यूर्ध्वमधोपरः ॥ १२ ॥
 
243
 
आस्तामन्यत्सुजनाः परोपका रैककरणदुर्ललिताः ।
संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते ॥ १३ ॥
 
244
 
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति ।
प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥ १४ ॥
 
देवेश्वरस्य ।
 
245
 
शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥१५॥
 
246
 
अद्यापि नोज्झति हरः किल कालकूट
कूर्मो बिभर्ति धरणी खलु पृष्ठभागे ।
अम्भोनिधिर्वहति दुर्वहवाडवाग्नि-
मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १६ ॥
 
247
 
आदिमध्यनिधनेषु सौहदं
सज्जने भवति नेतरे जने ।
छेदतापनविघर्षताडनै-
नन्यभावमुपयाति काञ्चनम् ॥ १७ ॥
 
248
 
ये जाते व्यसने निराकुलधिय: संपत्सु नाभ्युन्मताः
प्राप्तेनैव परामुखाः प्रणयिनि प्राणोपयोगैरपि ।