शार्ङ्गधरपद्धतिः /537
This page has not been fully proofread.
५२२
शार्ङ्गधरपद्धतिः
3540
भ्रूभङ्गे रचितेषि दृष्टिरधिकं सोत्कण्ठमुद्रीक्षते
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमितेपि चेतसि तनू रोमाञ्चमालम्बते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ ८ ॥
भवन्तवर्मणः ।
अथ कलहान्तरिताप्रलापादिकम् ॥ ११३ ॥
3541
अद्यारभ्य यदि प्रिये पुनरहं मानस्य चान्यस्य वा
गृढीयां विषरूपिणः शमतेर्नामापि संक्षोभिणः ।
तत्तेनैव विना शशाङ्ककिरणस्पष्टाहासा निशा
एको वा दिवसः पयोदमलिनो भूयान्मम प्रावृषि ॥ १ ॥
कस्यापि ।
3542
मानव्याधिनिपीडिताहमधुना शक्नोमि तस्थान्तिकं
नो गन्तुं न सखीजनोपि चतुरो यो मां बलान्नेष्यति ।
मानी सोपि जनो न लाघवभयादभ्येति मातः स्वयं
कालो याति चलं च जीवितमिदं क्षुण्णं मनश्चिन्तया ॥ २ ॥
कस्यापि ।
3543
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तं दिनं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तदोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ३ ॥
कस्यापि ।
3544
इदं कृष्णं कृष्णं प्रियतममनु श्वेतमथ किं
गमित्र्यामो यामो भवतु गमनेनाथ भवतु ।