This page has not been fully proofread.

प्रियातिथ्यादिकम्
 
3525
 
यां यां प्रियः प्रैक्षत कातराक्षीं
सा सा हिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्या-
स्तत्रान्तरे जघ्नुर कटाक्षैः ॥ १२ ॥
 
माघकवेः ।
 
अथ प्रियातिथ्यादिकम् ॥ १११ ॥
 
3526
 
सज्जितसकलशरीरा क्षणे क्षणे मनसि किमपि गणयन्ती ।
उत्सवमिह तं दिवसं मनुते मुग्धा प्रियागमने ॥ १ ॥
शार्ङ्गधरस्य ।
 
3527
 
आगच्छन्सूचितो येन येनानीतो गृहं प्रति ।
प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥ २ ॥
 
सोमकवेः ।
 
3528
 
आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लज्यतां
गेहिन्या परितोषबाष्पकलिलामासज्य दष्टिं मुखे ।
दवा पीलुशमीकरीरकवलं लोलाञ्चलेनादरा-
दुन्मृष्टं करभस्य केसरसटाभारायलमं रजः ॥ ३ ॥
 
अद्भुतपुण्यस्य ।
 
3529
 
बाला चन्दनमालिका किसलयग्रन्थीनधः कुर्वतः
श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गणे ।
आक्रन्दात्सुहृदो वनाद्गुरुजनं नासाग्रसङ्गादसू-
न्कान्तं स्त्रीवधपातकात्स्मरमसत्कीर्तेः परावर्तयत् ॥ ४ ॥
कस्यापि ।
 
3530
 
किंचित्कम्पितपाणिकङ्कणरवैः पृष्टं ननु स्वागतं
न्रीडानम्रमुखाब्जया चरणयोर्न्यस्ते च नेत्रोत्पले ।