शार्ङ्गधरपद्धतिः /533
This page has not been fully proofread.
५१८
शार्ङ्गधरपद्धतिः
इते न भजते वस्तु प्रायः परस्परसंकर
तदियमबला धत्ते लक्ष्मीं कुतः सकलात्मिकाम् ॥ ६ ॥
कस्यापि ।
3520
विनैवाम्भोवाह बहलरुचिलिप्ताम्बरतला-
तडिल्लेखा हेमद्युतिविततिरम्या विलसति ।
विनैव स्वर्गङ्गां नमसि रभसा व्ययशफरी-
परीवर्ते: साथै स्फुरति विकचेन्दीवरवनम् ॥ ७ ॥
जयदेवस्य ।
3521
तम: स्तोमः पूर्वं तदनु सकल : शीतकिरण-
स्तत: कोकइन्हं तदनु न च किंचित्पुनरभूत् ।
अनम्भस्यावर्तस्तदनु कदलीकाण्डयुगलं
ततोवाञ्चौ पद्मौ किमिदमिति चित्रैव रचना ॥ ८ ॥
देवबोधे ।
3522
न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाग्यज्ञानि किं यान्ति नेत्रतामुत कर्णताम् ॥ ९ ॥
कस्यापि ।
3523
काचिन्निवारितबहिर्गमना जनन्या
द्रष्टुं प्रियं भवनजालकमाससाद ।
तस्था विलोचनमदृश्यत दाशदत्त-
यन्त्रोपरुद्धशफरोपमितं क्षणेन ॥ १० ॥
3524
कृच्छ्रेण कापि गुरुणैव जनेन रोध-
मुलङ्घ्य नायकसमीपभुवं प्रतस्थे ।
हा हन्त शीघ्रगमन प्रतिरोधहेतु-
स्तस्याः पुनः स्तनभरोपि गुरुर्बभूव ॥ ११ ॥
उत्प्रेक्षावल्लभस्यैतौ ।