This page has not been fully proofread.

संभोगे परस्परावलोकनम्
 
५१७
 
अथ संभोगशृङ्गारे परस्परावलोकनम् ॥ ११० ॥
 
3514
 
प्रियादर्शन मेवास्तु किमन्यैर्दर्शनान्तरैः ।
 
प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ १ ॥
 
कस्यापि ।
 
3515
 
क्षीरसागर
कल्लोललोललोचनयानया ।
 
असारोपि हि संसार: सारवानिव लक्ष्यते ॥ २ ॥
 
आकाश पोलेः ।
 
3516
 
उपप्राकारामं पहिणु नयने तर्कय मना-
गनाकाशे कोयं गलितहरिणः शीतकिरणः ।
 
सुधाबद्धया सैरुपवनचकोरैरनुसृतां
 
किरञ्ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् ॥३॥
 
कस्यापि ।
 
3517
 
पुरः स्थित्वा किंचिद्दलितमुखमालोकय सखे
सखेदाः स्थास्यन्ति ध्रुवमिदमदृष्ट्वा तव दृशः ।
इतश्चञ्चत्काञ्चीरणित मुखरात्सौधशिखरा-
दशकायां केयं कवलयति चान्द्रेण महसा ॥ ४ ॥
1
 
कस्यापि ।
 
3518
 
अये केयं लीलाधवलगृहवातायनतले

 
तुला कोटिक्काणैः कुसुमधनुषं जागरयति ।
 
अहो नेत्रइन्द्रं विलसति विलय श्रुतिमहो
Sama
 
कथं न त्रैलोक्यं जयति मदनः स्मेरवदनः ॥ ५ ॥
 
कस्यापि ।
 
3519
 
अमृतममृतं चन्द्रश्चन्द्र स्तथाम्बुजमम्बुजं
 
रतिरपि रतिः कामः कामो मधूनि मधून्यपि ।
 
15