This page has been fully proofread once and needs a second look.

३८
 
शार्ङ्गधरपद्धतिः
 

233
 

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । ।

अपकारिफुषु यः साधुः स साधुः सद्भिरुच्यते ॥ ३ ॥
 

234
 

हृदयानि सतामेव कठिनानीति मे मतिः ।

खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः ॥ ४ ॥
 

235
 

अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।

सदालोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥ ५॥
 

केषामप्येवे ।
 
ते ।
236
 

उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम् ।

यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ६ ॥

भर्तृहरेः ।
 

237
 

सुजनो न याति वैरं परहितनिरतो विनाशकालेपि ।

छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ ७ ॥

रविगुप्तस्य
 

238
 

अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचा: ।

देसः

हेम्नः
कठिनस्यापि द्रवणोपायोस्ति न तृणानाम् ॥ ८ ॥
 
:
 

कस्यापि ।
 

239
 

अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः ।

विदधाति रन्ध्रमेको गुणवानन्यस्तु पिदधाति ॥ ९ ॥
 

गोभहस्य ।
 
ट्टस्य ।
240
 

सन्तोपि सन्तः क्व किरन्तु तेजः
 

क्व नु ज्वलन्तु क्व ननु प्रथन्ताम् ।

विधाय रुद्धा ननु वेधसैव

ब्रह्माण्डकोषे घटदीपकल्पाः ॥ १० ॥