This page has not been fully proofread.

३८
 
शार्ङ्गधरपद्धतिः
 
233
 
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । ।
अपकारिफु यः साधुः स साधुः सद्भिरुच्यते ॥ ३ ॥
 
234
 
हृदयानि सतामेव कठिनानीति मे मतिः ।
खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः ॥ ४ ॥
 
235
 
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदालोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥ ५॥
 
केषामप्येवे ।
 
236
 
उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम् ।
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ६ ॥
भर्तृहरेः ।
 
237
 
सुजनो न याति वैरं परहितनिरतो विनाशकालेपि ।
छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ ७ ॥
रविगुप्तस्य
 
238
 
अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचा: ।

देसः कठिनस्यापि द्रवणोपायोस्ति न तृणानाम् ॥ ८ ॥
 
:
 
कस्यापि ।
 
239
 
अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः ।
विदधाति रन्ध्रमेको गुणवानन्यस्तु पिदधाति ॥ ९ ॥
 
गोभहस्य ।
 
240
 
सन्तोपि सन्तः क्व किरन्तु तेजः
 
क्व नु ज्वलन्तु क ननु प्रथन्ताम् ।
विधाय रुद्धा ननु वेधसैव
ब्रह्माण्डकोषे घटदीपकल्पाः ॥ १० ॥